|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.356. अध्यायः 356
Mahabharata - Shanti Parva - Chapter Topics
नरनारायणानुज्ञानेन नारदेन स्वाश्रमंप्रति गमनम्॥ 1॥ वैशम्पायनेन जनमेजयंप्रति श्रीव्यासमाहात्म्यकथनम्॥ 2॥ सौतिना श्रीनारायणगुणवर्णनपूर्वकं शौनकादिभ्यस्तदनुग्रहाशंसनम्॥ 3॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-356-0x(6627)(80228)
श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम्।
अत्यन्तं भक्तिमान्देवे एकान्तित्वमुपेयिवान्॥ 12-356-1(80229)
उषित्वा वर्षसाहस्रं नरनारायणाश्रमे।
श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम्।
जगाम हिमवत्कुक्षावाश्रमं स्वं सुरार्चितम्॥ 12-356-2(80230)
तावपि ख्यातयशसौ नरनारायणावृषी।
तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप सत्तमम्॥ 12-356-3(80231)
त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः।
पावितात्माऽद्य संवृत्तः श्रुत्वेमामादितः कथाम्॥ 12-356-4(80232)
नैव तस्यापरो लोको नायं पार्थिवसत्तम।
कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम्॥ 12-356-5(80233)
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः।
यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम्॥ 12-356-6(80234)
कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित्।
आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति श्रुतिः॥ 12-356-7(80235)
य एष गुरुरस्माकमृषिर्गन्धवतीसुतः।
तेनैतत्कथितं तात माहात्म्यं परमात्मनः।
तस्माच्छ्रुतं मया चेदं कथितं च तवानघ॥ 12-356-8(80236)
नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप॥ 12-356-9(80237)
एवमेष महान्धर्मः स ते पूर्वं नृपोत्तम।
कथितो हरिगीतासु समासविधिकल्पितः॥ 12-356-10(80238)
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्।
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्।
धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम्॥ 12-356-11(80239)
वर्ततां ते महायज्ञो यथासंकल्पितस्त्वया।
संकल्पिताश्वमेधस्त्वं श्रुतधर्मा च तत्त्वतः॥ 12-356-12(80240)
सौतिरुवाच। 12-356-13x(6628)
एतत्तु महदाख्यानं श्रुत्वा पारीक्षितो नृपः।
ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत्॥ 12-356-13(80241)
नारायणीयमाख्यानमेतत्ते कथितं मया।
पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु॥ 12-356-14(80242)
नारदेन पुरा यद्वै गुरवे तु निवेदितम्।
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः॥ 12-356-15(80243)
स हि परमर्षिर्जनभुवनपतिः
पृथुधरणिधरः श्रुतिविनयपरः।
शमनियमनिधिर्यमनियमपरो द्विजवर
सहितस्तव च भवतु गतिर्हरिरमरहितः॥ 12-356-16(80244)
असुरवधकरस्तपसांनिधिः
सुमहतां यशसां च भाजनम्।
एकान्तिनां शरणदोऽभयदो गतिदो
गतिदोस्तु वः सुखभागकरः।
मधुकैटभहा कृतधर्मविदां गतिदो
भयदो मखभागहरोस्तु शरणं स ते॥ 12-356-17(80245)
त्रिगुणो विगुणश्चतुरात्मधरः
पूर्तेष्टयोश्च फलभागहरः।
विदधातु नित्यमजितोऽतिचलो
गतिरात्मवतां सुकृतिनामृषीणाम्॥ 12-356-18(80246)
तं लोकसाक्षिणमजं पुरुषं पुराणं
रविवर्णमीश्वरं गतिं बहुशः।
प्रणमध्वमेकमतयो यतः
सलिलोद्भवोपि तमृषिं प्रणतः॥ 12-356-19(80247)
स हि लोकयोनिरसृतस्य पदं
सूक्ष्मं परायणमचलं हि पदम्।
तत्साङ्ख्ययोगिभिरुदाहृतं तं
बुद्ध्या यतात्मभिरिदं सनातनम्॥ ॥ 12-356-20(80248)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये षट्पञ्चाशदधिकत्रिशततमोऽध्यायः॥ 356॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-356-15 गुरवे बृहस्पतये॥ 12-356-16 स नारायणः॥ 12-356-17 कृतधर्मः कृतयुगधर्मः सत्यादिस्तद्विदाम्॥ 12-356-18 चत्वारो वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाख्या आत्मानस्तान्धारयति स तथा। त्रिगुणातिगश्चतुष्पथधरः इति ध. पाठः॥ 12-356-19 सलिलमुद्भवो यस्य स नारायणः शेषशायी तमृषिं वासुदेवम्॥ 12-356-20 लोकस्याव्यक्तादेर्योनिः। अमृतस्य मोक्षस्य पदं स्थानम्। पदं पदनीयम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|